SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ ज्ञानेसाकारत्ववादिनस्सौत्रान्तिकस्यापाकरणम् । (३५) PR.. दीपैर्विना न भवतीति निगद्यते नोऽनाकारपक्ष इह तेन बुधैरुपेक्ष्यः ॥१८२॥ स्वाकारतोर्पकतयैव घटादयः स्युः सौत्रान्तिकस्य च मते ननु सिद्धिभाजः॥ बाह्यानुरागविमुखीकृतचित्तयोगाचारस्य तेऽपि नहि बोधविविक्तरूपाः ॥१८३॥ आपातमात्ररमणीयमिदं हि बौद्धसन्तानबालवचनं वचनीयमेव ॥ स्याहादवादिन इहापि महास्त्रमेष स्याहाद एव विमुखीकुरुते विपक्षम् ॥१८४॥ साकारता मतिगता विषयव्यवस्थाहेतुर्मता भवति सा ननु तां विनाऽपि ॥ नेत्रादिना नियमितान्नियतस्य बोधात् तत्रैव तनियमनश्च तथा स्वभावात् ॥१८५॥ वस्तुस्वभाव इह पर्यनुयोगतो नो हेयस्स्वहेतुबलतोऽचलितस्वरूपः ॥ किन्नान्यथा तव मतेऽपि भवेच्च नीला कारोऽप्यतादृशतयेति परस्य प्रश्नः ॥१८६॥ नीलाद्यथाऽयमभवन्नयनात्तथैव स्वाकारतार्पकमभून्नयनं कथन्न ॥ वस्तुस्वभावममलं शरणं विहाय कान्या तवापि गतिरत्र तथैव कल्प्ये ॥१८७॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy