________________
( २८ )
न्यायसिन्धी
स्याच्चदतीतविषये तदनागते वा तीक्षजापि मतिरस्तु ततश्च तेषाम् || पूर्वापरौ च भजनान्न विना विभिन्नौ स्तो वर्त्तमानत इयं क्व तदा कथा ते || १४४॥
ययाग्रहस्तव तयोश्च विभिन्नकालवृत्तित्वतो न विशदाभमतिस्तदानीम् ॥ सर्वज्ञता सुगततोऽपहृता स्वयैवं तात्कालिकान्यविषयावगतेरभावात् ||१४५|| एतेन केवलविशेषणमन्तरैव बोधो निरंशविशदो ननु वर्त्तमानम् ॥ अर्थ प्रकाशयति नान्यमिति प्रलापोऽव्यस्तङ्गतस्सुगतशिष्यगणोपजीव्यः ॥ १४६ ॥ दण्डान्वितः पुरुष इत्यपि बुद्धिरण
एवं स्थित शबलवस्तुत एव युक्ता ॥ सर्वस्य सा भवति किन्तु विवक्षितोऽर्थो यस्स्यात् स एव वचनप्रथितस्तु लोकैः ॥ १४७॥ चित्रात्मके घटपटादिपदार्थजाते
यस्यैव येन पुरुषेण कृता विवक्षा ॥
तत्रैव तस्य पुरुषस्य वचोविलासो ज्ञातेषु सत्स्वपि च धर्मगणेषु बौद्ध || १४८ ॥ एतावतैव नियमो वचने न चास्ति बुद्धिस्तु सर्वविषयाक्षभवार्थजन्या ॥