________________
सविकल्पकव्यवस्थापनम् ।
(२७)
ध्यान्ध्यं यतो नहि भवेत् तव केवलस्य
पूर्वापरायविषयीकरणेऽवभासः ॥१३८॥ ऐक्यं यथात्र प्रतियोग्यनुयोग्यपेक्षं
नो भासते तदुभयं विरहय्य बुद्धौ ॥ भेदस्तथैव प्रतियोग्यनुयोग्यपेक्षः किं भासतान्तदिव केवलशब्दवाच्यः ॥१३९॥ भेदः स्वलक्षणतयैव मतो हि तेन तबुद्धितो यदि भवेत् स गहीत एव ।। ऐक्यं स्वलक्षणतयैव मतं कथन्न ।
तच्चापि तर्हि तत एव गृहीतरूपम् ॥१४॥ सान्निध्यतो भवति चाक्षमतेर्विलांसः पूर्वापरौ न विषयोकुरुते ततः सा ॥ इत्यादिकन्तव मते न हि युज्यते यत्
सान्निध्यमेव तु न चास्ति पृथक्पदार्थात् ॥१४१॥ नैक्यत्वतो ग्रहणमत्र भवेत्तथात्वे
भेदत्वतो ग्रहणमप्यनुमोदितं किम् ॥ धर्मिस्वरूपमुभयत्र समानमेव
तस्मात् कथन्न सविकल्पकबुद्धिरणः ॥१४२॥ रूपे यथैव नयनस्य तथैव गन्धे
सान्निध्यमस्ति नयनान्न तु गन्धबुद्धिः॥ योग्यत्वमेव नियतन्तत आहतानां ग्राह्यस्वभावगमकम्मतमिन्द्रियाणाम ॥१४३॥