________________
(२६)
न्यायसिन्धौ.
...............................................
यो वै क्षणः प्रकृतकालगदेशवृत्तिकार्योद्भवे प्रभुरसौ यदि ते समर्थः ॥ कार्यं त्रिकालगतदेशगतं विधातुं नित्यं विभु प्रथितमेव तदा त्वयाऽपि ॥१३३॥ पूर्वप्रसञ्जनभयादयदि तद्विरुद्ध
मिष्टं तदा क्षणगतेऽपि भवेच्च भेदः ॥ तत्त्वेऽनवस्थितिघटा तव शून्यता वा
पक्षे क्षणक्षयकथा न तु सावकाशा ॥१३४॥ इत्थं स्वबुद्धिविभवो ननु तार्किकेण
व्यक्तीकृतस्तु प्रतिवन्दिबलान्न तत्त्वात् ॥ एकक्षणेऽपि बहुधर्मयुतं पदार्थ
यस्माद्विवेद न च सोऽपि कुतर्कमोहात्॥१३५॥ शक्तिः स्वरूपसहकारिविभेदतोऽत्र
वेधा मता घटपटादिपदार्थनिष्ठा ।। बौद्धोक्तदोषनिवहस्य कुतोऽवकाशः
स्याहादवादिनि वृथा प्रतिवन्दिचर्चा ॥१३६॥ स्थैर्ये स्थिते क्षणिकताऽनुगते क्रियायाः
किन्नोद्भवो न च विशिष्टमतिस्ततः किम् ॥ संयोगतो विभजनाच तदुद्भवाहा
किन्नाक्षजा भवतु धीविशदाऽवभासा ॥१३७॥ यद्वर्तमानमिह केवलमक्षबोधे वस्तु प्रकाशत इति प्रतिपादितन्तत् ॥