________________
सविकल्पकव्यवस्थापनम् ।
(२५)
ANNNNNNN
सामर्थ्यतद्विरहरूपविरुद्धधर्माध्यासान्मतं क्षणिकतानियतश्च सत्त्वम् ॥१२७॥ अर्थक्रियाजनकतैव मताऽत्र सत्ता तस्या बलात् क्षणिकता तव सर्वभावे ॥ एतद्वयन्ननु विचारसहन्न यस्मान्नैयायिकैरपि कृता स्थिरताव्यवस्था ॥१२८॥ एकन्न किश्चिदपि कारणमर्थकारि
सामग्रयमेव जनकन्तत एव कार्यम् ॥ यस्मात्ततस्तु सहकारिसहायतोऽर्थ
कुर्युन्न कुर्युरपि तद्विरहात् पदार्थाः ॥ १२९ ॥ किं वा यथाऽत्र करणाकरणे न कालभेदे स्थिरे भवत एकपदार्थनिष्ठे ॥ एते तथैव भवतो ननु देशभेदेऽप्येकत्र धर्मिणि कथं क्षणिकेऽपि बौद्ध ॥१३०॥
यच्चैकदेश इह कार्यजनौ समर्थस्तत्सर्वदेश इत एव करोतु कार्यम् ॥
नो चेविरुद्धघटनादिह चापि भेद एवं तवोपरि कथन्न पतेत् प्रसङ्गः ॥१३१ ॥ योऽयं क्षणः प्रकृतकालगतं पदार्थं
कर्तुं समर्थ इह सोऽन्यगतं तथा चेत् ॥ कार्यं त्रिकालगमसौ जनयेत्तथा च साधु क्षणक्षयमतं भवता न्यगादि ॥ १३२ ॥