SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ (२४) न्यायसिन्धौ. अव्याप्यवृत्तिरथ तार्किकसम्मतोऽयं तद्वत्त्वतोऽणुषु कथन्नहि सांशता स्यात् ॥ इत्यादि दोषघटना जिनसम्प्रदाये स्याद्वादलाग्छिततनो न भवेच्च तस्मिन् ॥१२२॥ संयोगवद्विभजनश्च सथैव सिद्ध नो द्रव्यतस्तदुभयं व्यतिरिक्तमेव ॥ तत्कारणं भवति कर्म तथैव तस्मात् किन्नो विशिष्टमतिरक्षभवा ततो नः ॥१२३॥ कर्मोद्भवो भवति नो क्षणिकत्वपक्षे स्थैर्ये भवेदपि न स प्रमितस्तु पक्षः ॥ इत्यादि यत्पुनरिहाभिहितन्त्वया तत् स्यादेव तार्किकभयस्थ निदानभूतम् ॥१२४॥ नो नः क्षणक्षयतयाभिमताः पदार्था एकान्ततो न च तथा स्थिरतालयाश्च ॥ स्याद्वाद एव ननु तत्र निरस्तदोषः कादिभूतिफलकोऽभ्युपगन्तुमर्हः ॥१२५॥ यस्माद् भवेन्न च निरन्वयमेव जन्म तस्मात् कथं क्षणिकपक्षकृतादरस्त्वम् । पूर्वापरक्षणगताश्च विभिन्नधर्मा ध्यासात् कथं स्थिरतयेव तथोपगम्याः॥१२६॥ यरचैकदा भवति यजनने समर्थ तत्सर्वदेति नियमेन प्रसङ्गतो यत् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy