SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ सविकल्पकव्यवस्थापनम् । ( २३ ) दृष्टं स्पृशामि कनकादि स एव चाहमित्यादिका मतिरुदेति न तद्विना यत् ॥ ११६॥ स्पर्शो न नेत्रविषयो न च रूपमिष्टनवग्गोचरं कथय कस्य भवेत्तथा धीः ॥ द्रव्यन्तदाश्रयतयाभ्युपगम्यते चेत् तत्र द्वयोरपि तदा विषयस्वशक्तिः संयोगखण्डनमपि प्रथितन्वया यत् तत्तार्किकस्य मतमेव निराकरोतु ॥ पर्यायताऽस्य कथिता ननु येन तस्मिन् स्याद्वादवादिनि कथन्तव दोषपोषः ॥११८॥ ॥११७॥ संयोगिनोऽत्र परमाणव एव किं स्युसंयोगहेतव उतेतरथाद्यपक्षे ॥ संयोगकल्पनमनर्थकमेव तेषां संयोगिता प्रथमतो ननु यत्प्रसिद्धा ॥ ११९ ॥ द्वैतीयके तु किमु सातिशयास्तथा स्युः किं वा न तेऽतिशयतश्च विशिष्टरूपाः ॥ आद्येऽन्यतो यदि तु सातिशयत्वमेषां किन्नानवस्थितिलतापरिवेष्टनं स्यात् स्वस्माद्धि चेद्यदि तदा त्वविशेषतः किं देशान्तरस्थितिमतामपि तद्भवेन्नो || दोषादतोऽतिशयशून्यतयापि नैषां ॥१२०॥ स्वीकारपक्ष उपपद्यत एव युक्त्या ॥१२१॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy