SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ (२२) न्यायसिन्धौ. नो सर्वथावयवतो व्यतिरिक्त एव स्थलो घटाद्यवयवी जिनसम्प्रदाये ॥ भिन्नस्ततोऽथ च कथञ्चिदयं ततः किं तस्माद् विशिष्टमतिरक्षभवा न तस्मिन् ॥१११॥ अंशेन वृत्तिरुत किं निखिलात्मनांऽशे स्वरसम्मतावयविनोऽप्यथवा न सास्ति । इत्यादिदोषभयतो व्यतिरिक्ततैव स्यात् सर्वथाक्षिचरणानुमतास्य लुप्ता ॥११२॥ सोऽनन्तशक्तिकतया च भवेदनन्तधर्मा ततोऽवयवसङ्घसमाश्रितोऽपि किञ्चिञ्चलत्यपि न गच्छति संस्थितोऽपि नो स्थैर्यवान् भवति चित्रमचित्ररूपः ॥११३॥ देशेन दृष्ट इह नैव भवेच्च दृष्टो देशावृतोऽपि तदनावृत एष इष्टः ॥ रक्तोऽप्यरक्त इह नैव विरोधचर्चा ऽनन्तस्वभाववति वस्तुनि मानसिद्धे ॥११४॥ नास्य प्रथा भवति वा परमाणुपुञ्जा यस्मान्महत्त्वमणुषूपगतन्त्वया नो॥ संयुक्ततापि न च तेषु तव प्रसिद्धाऽ दृश्याणुपुञ्जजनितन्न च दृश्यपुञ्जम् ॥११५॥ रूपादिभिन्नमिह नैव समस्ति किञ्चिद्द्रव्यन्वयेति कथितन्नहि तच्च युक्तम् ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy