________________
सविकल्पक व्यवस्थापनम् । (२१)
युक्तिस्समैव समवायनिराक्रियायामेषा विशुद्धमतिभिस्स्वयमेव चिन्त्या ॥ १०५ ॥ वायौ न किं भवति रूपविशिष्टबुद्धिरेको विभुश्च समवाय इहेष्यते यत् ॥ सम्बन्धसत्त्वनियतैव मतार्थसत्ता
ना चेत्तदा भवतु तस्य प्रयोजनं किम् ॥१०६॥ स्याच्चेन्न रूपप्रतियोगिक एष वाय
वाच्यस्तदा विनिगमो ननु कोऽपि येन ॥ भूम्यादिकेऽस्ति स तु नो पवनादिभावे ज्ञानाद् व्यवस्थितिरियञ्च न युज्यते ते ॥१०७॥ वायौ हि रूपविरहस्य मतिस्तवेष्टा सा रूपबुद्धिजनितैव न रूपबुद्धेः ॥ आरोपतावगतिरस्ति विनैव रूपाभावप्रमाप्रमितिमित्यवधारणीयम् लाघवात्तव प्रथा यदि तस्य तर्हि नास्त्येव तच्च बुध तद्व्यतिरिक्ततायाम् ॥ द्रव्यादिभेद घटनादिप्रकल्पनेन
यगौरवं भवति तत्र तदात्मतातः तादात्म्यतो भवति जातिविशिष्टबुद्धिस्तादात्म्यमत्र तु कथञ्चिदनन्यतैव ॥ तस्मात्कथं कथय बौद्ध विकल्पबुद्धिरक्षोद्भवापि किमु नैव प्रयाति सिद्धिम् ॥ ११०॥
-
॥१०८ ||
॥१०९॥