________________
सविकल्पकव्यवस्थापनम् ।
(१७)
बोधं विशिष्टविषयं मनुते ततः किं,
प्रत्यक्षतायुपगमोऽपि भवेच्च तस्य ॥८ ॥ एतन्न चारु सुगतानुगदर्शितं यत्,
सर्व पलालनिकरस्य समं विभाति । स्याहादसाञ्छितपदार्थमहेन्धनेद्ध-- बोधाग्निना सममुपैति न च प्रतिष्ठाम् ॥८॥ नात्राक्षजस्त्वभिमतो निखिलोऽर्थबोध--
शब्दान्वितार्थविषयस्तव येन दोषः ॥ अन्योन्यसंश्रयभवस्मरणेन जन्ये,
शब्दावगाहिनि भवेन्नयनोत्थबोधे ॥८५॥ जातिः समानपरिणामतया स्वयापि,
जैनरिक्यमतिविभ्रमवादिनेष्टा ॥ मन्तुं तथा विधिमुखस्य न प्रत्ययस्य,
तुच्छावगाहनतयोपगमोऽपि युक्तः ॥८६ ॥ नापोह एव तव जातिपदाभिषिक्तः स्यात्तां विनाऽनुगतबुद्धिभवे समर्थः ॥ भेदद्वयाकलितमूर्तिरयं यतस्तेऽ- . गोन्यत्वरूप इह सम्मत आगमेन ॥७॥ गोव्यक्तिभेद उत किं सकलस्य गोर्वा
भेदो निविष्ट इह न प्रथमोऽत्र युक्तः ।। तत्त्वे हि गोष्वपि परस्परभिन्नभावाद्गोभिन्नतैव न गवान्यविभिन्नता स्यात् ।।८८॥