________________
न्यायसिन्धौ.
चेदस्तुतो यदि विशेष्यविशेषणत्वे
नैतादृशा विनिमयो भविता तदानीम् ॥ तस्माद्विशिष्टमतिरक्षसमुद्भवा नो
युक्ता निरंशमतिरेव ततोऽर्थतश्च ॥७॥ स्वात्मप्रतिष्ठितमिदं जगदेव नो वै
वृत्तिः परस्य परधर्मिणि संप्रसिद्धा ॥ तत्त्वेऽनवस्थितिलतापरिवेष्टनं स्या__ न्नो भूतलाश्रितघटादिमतिस्ततोऽपि ॥७९॥ यश्चाणुदेश इह येन विशिष्ट इष्टो
नो तस्य नेत्रघटनाऽपि तदावृतत्वात् ॥ योऽनावृतस्स तु न तेन भवेदिशिष्टी
देशादितोऽपि न विशिष्टमतिस्ततोऽक्षः ॥८॥ किञ्चाक्षयोगविमुखानपि भावसार्थान्
प्रत्यक्षबोध इह चेदवगाहते ते ॥ किन्नो भवेदखिलतत्त्वप्रकाशिका धी
स्सर्वज्ञवत्सकलसत्त्वसमाश्रिताऽपि ॥१॥ पूर्वादिके यदि तु सन्निधिमन्तं राते वक्षोत्थबोध, बोध उपपद्यत एव तर्हि ॥ कस्मादनागतविनष्टपदार्थसार्थेऽ
ध्यक्षामतिर्भवति नैव तथैव भिन्ने ॥२॥ तस्माद् विशेषणमिहाथ विशेष्यमाभ्यां संसर्गमज्ञजनता प्रथमं प्रकल्प्य ॥