________________
(१४)
न्यायसिन्धौ.
नन्वत्र बुद्धतनया विविधैर्विकल्पै
दुस्सन्दिहानमनसः प्रतिबोधनीयाः॥ यस्मादिना नहि विशेषणगोचरत्वं
बुद्धौ मते तव विशिष्टमतित्वमिष्टम् ॥६॥ शब्दो विशेषणतया नहि भासतेऽर्थे
ऽध्यक्षान्न शाब्दिकमतं तत एव युक्तम् ॥ शब्दो न नेत्रविषयो न स वर्ततेऽर्थे
न व्यापको न च ततोऽभिमतो ह्यभिन्नः ॥६॥ स्मृत्याऽपि तस्य नयनोत्थमतौ प्रकाशोऽ
न्योन्याश्रयेण नहि युज्यत एव यस्मात् ॥ उद्बोधकाक्षजधियस्स्मरणस्य जन्म
तस्माच्च सेति न भवेदुभयप्रसिद्धिः ॥६९।। जातिस्समानमतितो न च सम्प्रसिद्धा
सापोहगोचरतयैव यतः प्रसिद्धा ॥ तहत्त्वतोऽपि न विशिष्टतया घटादौ ___बोधोदयो भवति गौतमतत्रसिद्धः ॥७॥ नो युज्यते त्ववयवी व्यतिरिक्त एकः
स्थूलस्ततोऽपि न विशिष्टमतेविलासः ॥ द्रव्यं गुणाधिकरणन्न च विद्यतेऽत्र
तस्मात् कथाऽपि न विशिष्टधियोऽक्षजायाः७१॥ बुद्धिघटादिविषया परमाणुपुञ्जाद्
द्रव्यं न कोऽपि विषयीकुरुतेऽक्षमध्ये ॥