________________
बौद्धोक्तनिर्विकल्पकप्रामाण्यापाकरणम.
(१३)
तत्पारमार्थिकमिदं शपथैकगम्यं
मानत्वलक्षणमविज्ञजनोपगम्यम् ॥६१॥ अर्थोपदर्शकतयाऽथ निरंशबोधो
मानं विकल्पनधियो जननात्तथा च ॥ द्वारं सदेव सविकल्पकमत्र मानं __क्लप्तं निरंशमतितो व्यवहारकाले ॥२॥ यद्यर्थगोचरतयाऽभिमतो विकल्पः
स्यात्तर्हि तस्य जननादुपदार्शका धीः ॥ यस्मान्न संशयविपर्ययकारणं धो
मानं तथा च सविकल्पकमेव तत्वम् ॥६३॥ सामान्यगोचरतया यदि मानताऽस्य
सद्गोचरत्वविगमान्न तव प्रसिद्धा व्यापारताऽपि तत एव निरंशबुद्धे
स्स्यादस्य नैव विपरीतमतेरिवार्थे ॥४॥ नो दृश्यकल्प्यविषया मतिरस्ति काचि
द्भेदेऽप्यभेदघटनाऽत्र यया भवेत्ते ॥ नारोपितो भवति कोऽपि प्रभुः क्रियायां
तृष्णा कृशा भवति किं मृगतृष्णिकातः ॥६५॥ किञ्चाक्षजात्र सविकल्पकबुद्धिरेव ।
नेष्टा कुतो भवतु येन निरंशबुद्धः ॥ तद्धारतो नियतगोचरमानता ते मानप्रसिद्धिपदवीमवलम्बमाना ॥६६॥