________________
न्यायसिन्धौ
दृष्टा यदैव विपिने भ्रमता मया गौश्वस्तदैव विदितोऽनिलतुल्यवेगः ॥ इत्यादिका स्मृतिरिहाभिमता प्रमाणं यस्मान्नसाऽपि सविकल्पकमन्तरा स्यात् ॥५६॥
अभ्यासपाटवप्रसङ्गवशाद् यदि स्था
दार्थित्वतोऽथ च निरंशमतेः स्मृतिस्ते ॥ किन्न क्षणक्षयधियोऽप्यविकल्पिकायास्स्यात्तत्स्मृतिः सुगतशिष्य ? तदोक्तहेतोः ॥ ५७ ॥ सामर्थ्य तद्विरहसङ्घटनापि तस्याः
स्यात् कथं वद निरंशमतित्ववादिन ? | येन त्वयापगतमप्यनुमोदितं स्या
देकत्र सा तदितरत्र न सेति वाक्यम् ॥५८॥ स्मृत्युद्भवाद् भवति सा सविकल्पिकैव
तस्या न जन्म सविकल्पकजन्मकाले || तस्मात् कथं कथय सौगत तेऽनुमानं
स्यान्निर्विकल्पकमतिप्रमितौ समर्थम् ॥५९॥
( १२ )
मानान्तरं न च तवोपगतं यतः स्यात्
तस्याः प्रसिद्धिरिति जैनमतं प्रमाणम् || पूर्वोक्तलक्षणयुतं न कुतोऽपि बाध
प्राप्नोति न स्वदुपदर्शितमत्र मानम् ॥ ६० ॥ यस्मात् स्वलक्षणमतित्वमनंशबुद्धौ
स्वप्नेऽपि कस्यचिदिह प्रथते न चैव ॥