________________
बौडोक्तदूषणपरिहारः
(११)
संवेदनं स्वत इह प्रमितौ समर्थ
नो सम्मतं क्षणिकतायनुमाप्रणेतुः ॥५०॥ यस्मात् क्षणक्षयितया सकलाक्षबुद्धि
नीलादिकन्तु विषयीकुरुते मतेऽस्मिन् ॥ सा साधयेद्यदि विक पमतिं विनार्थ
सत्त्वेन कः क्षणिकताऽनुमया तवार्थः ॥५१॥ स्यात् स्वानुरूपसविकल्पकसंविधाना
न्मानत्वमस्य न च सोऽप्यनुभूयमानः ॥ संवेदनात्स्वत इहापि यदि प्रसिद्धिः
किं स्यात् तदा क्षणिकताऽवगता न तेन ॥५२॥ तस्यानुरूपसविकल्पकबोधतश्चेत्
सिद्धिस्तदा किमनवस्थितिरत्र ते नो ॥ तस्मात्त्वयाऽनुमितितोऽत्र निरंशबुद्धे
स्स्यात्साधनं तदपि नैव विचारमार्गे ॥५३॥ यजायतेऽत्र सविकल्पकबुद्धि काले
तन्निर्विकल्पकमिति प्रमिता यदि स्यात् ।। व्याप्तिस्तदोऽक्षजधियोऽनुमितिप्रसिद्धं ___ स्यानिर्विकल्पकमतित्वमिमां विना नो ॥५४॥ तत्राश्वकल्पनधियस्तमये त्वयोक्ता
बुद्धिगवादिविषया नियमप्रसिद्धयै ॥ दृष्टान्तभावममलं प्रतिपद्यते नो सिद्धिर्यतो न सुगताऽनुमतापि तस्याः ॥५५॥