________________
प्रमाणलक्षणम्ः
( ९ )
स्याद्वादलाञ्छितपदार्थप्रथा समर्थ तगोचरत्वत इति प्रवदन्ति जैनाः
स्वार्थावगाहि सविकल्पकमत्र सिद्धं ज्ञानं प्रमाणमिति तत्र तिरस्क्रियां ये ॥ कुर्वन्ति तेऽत्र सुगतानुचरा न जैनैः
किं खण्डितास्स्वमततत्त्वविचारणायाम ||४०|| सङ्क्षेपतस्तु परकीयमतप्रपञ्चं
प्रोद्भाव्य खण्डनमिहास्य भवेत्तु युक्तम् ॥ न ह्यन्यदीयमतखण्डनमन्तरा यच्छ्रद्धास्पदं भवति तच्च परीक्षकाणाम् ॥ ४१ ॥ अक्षाद्भवं भवति वस्त्ववगाहि पूर्व
ज्ञानं विकल्पनधियः पृथगेव तस्मात् ॥ सामान्यगोचरमतिः सविकल्पिका ता
माश्रित्य तद्भवति मानमिमां विना नो ॥४२॥ लिङ्गोद्भवं तु सविकल्पकमेव तच्च सामान्यगोचरतयाऽपि भवेत् प्रमाणम् ॥
अर्थोद्भवत्व अहि यत्खलु निर्विकल्प -
द्वारा प्रमात्वगमकं च परम्परातः
प्रामाण्यमत्र परमार्थत उक्तमेभिः
॥३९॥
॥४३॥
सद्गोचरत्वमथ सांव्यवहारिकं तु ॥
संवादकत्वमत एव भवेच्च तस्य
ज्ञानान्तरादधिगतिर्न मते स्वतोऽस्मिन् ॥४४॥