SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ (८) न्यायसिन्धौ. वृत्तेस्तु यद्यपि मते स्वत एव भानं तेषां तथापि न जिनागमनीतितस्तत् ॥ यस्माच्च तैर्विषयदेशगतिं प्रकल्प्य प्रोक्ता हृदः परिणतिर्विषयस्वरूपा ॥३४॥ वेदान्तिनामिव न कापिलनीतिभाजां ज्ञानप्रकाश इह इष्टो यतो न जड एव भवेत्प्रकाशो नो वास्तबिम्बप्रतिबिम्बविकल्पनं सत् ॥ ३५॥ वीथिगानाम् ॥ साङ्ख्यैर्मतं तु विषयप्रतिबिम्बनं हि नेत्रे तथाऽस्य हृदि तस्य प्रधानबुद्धौ ॥ द्वारं स्वकृतिरपि प्रथितस्तयात्मा कूटस्थनित्य इह बिम्बनतस्तु तद्वत् ॥३६॥ बौद्धोऽपि यद्यपि धियं स्वत एव भास्यां ते तथापि न जिनागमसिक्तचित्तः ॥ संवेदनं न सविकल्पक मिष्टमस्य स्वस्माद्धितं प्रकटयन्ति जिनानुगास्तु ॥ ३७॥ वैशेषिकोऽक्षचरणश्च धियं वदन्तौ भास्यां परैर्न जिनदर्शितमार्गनिष्ठौ ॥ भट्टो मुरारिरपि नात्र तथा वदन्तौ ज्ञानं ह्यतीन्द्रियमनुव्यवसाय गम्यम् ||३८|| इत्थं प्रसिद्धिपदवीं स्वत एव प्राप्तं ज्ञानं न मानमतिरिक्तमपेक्षते नः ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy