________________
ज्ञानस्वप्रकाशवादः
( ७ )
पश्चात् ततो मतिमतिर्ननु निर्विकल्पा तस्माद् विशेषणमतेस्तु विशिष्टबुद्धिः ||२९|| एषा क्षणद्वयगते न विशेषणे स्याज्ज्ञाने विशेषणमतेस्समयेऽप्यवृत्तौ ॥ प्रत्यक्षबुद्धिजनको विषयो मतो यतत्कार्यकालगत एव न चान्यथाऽपि ॥३०॥ तत्ता विशेषणमपि प्रथते विनैव
सत्त्वं तथैव प्रकृते यदि सम्मतं ते ॥ ज्ञानं मयीति वद बोधविशेष्यिका धीः कस्मात् तदापि भवितेति बुधाग्रगण्य ||३१| आत्मा हि यद्यपि विशेष्यतया प्रधानो ज्ञानस्य बोधविषयत्वविवक्षणेऽस्ति ॥ अर्थस्तथापि विषयोऽत्र प्रधान एव
यत्नादिकार्यजनने स्वविवक्षया स्यात् ॥३२॥
एतेन यैरनुमितिस्त्विह लिङ्गबुद्धे
मुख्यत्व संवलितपक्षविशेष्यतातः ॥ उक्ता स्वतः प्रमितिभाननिराक्रियार्थं ते खण्डिता अपसरन्तु विचारमार्गात् ||३२|| स्वप्रकाशविगमस्तु निजप्रकाशो ब्रह्मात्मबोधगत इत्यभिमन्यमानाः ॥
वेदान्तिनो विधिमुखस्वप्रकाशकत्व
स्वीकर्तृ जैन विमुखा इति भिन्नमार्गाः ॥ ३३ ॥