SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ( ६ ) न्यायसिन्धौ. ज्ञेये मतौ मतिमति प्रविभक्तमेव योग्यत्वमिष्टमिह जनमतानुगानाम् ॥ कार्यैकगम्यमिदमत्र ततो न कार्यः प्रश्नो विकल्परसिकैर्विबुधैरसारः नात्र प्रभाकरमतेन समानताऽपि शङ्कया यतो हि गुरुणा व्यवसाय एव ॥ प्राधान्यतो घट इति प्रतिपादितोऽत्र जानाम्यहं घटमिति प्रविभाग एषः ॥ २५ ॥ ॥२४॥ एतेन चेत् स्वविषयत्वमिह प्रसिद्धं स्यात् स्वप्रकाश उपदर्शितमानतस्ते ॥ तस्य प्रथा यदि तदा विषयत्वसिद्धिरित्थन्निरस्त इतरेतरसंश्रयोऽपि किञ्चास्य बोधविषयत्वमपेक्ष्य बोधो न स्वप्रकाश उदितोऽभिनवे तु तन्त्रे ॥ सत्ता यथाऽपरत एव सती तथैव बोधोऽवभासत इति प्रथितन्तु तेन ॥२७॥ ज्ञानस्य धीरपि भवेन्न परप्रकाशे ॥ २६ ॥ यस्माद् विशेषणमतिर्जनिका मता ते ॥ पूर्व विशिष्टमतितः प्रकृते तु तस्या नो सम्भवो भवति दोषवितानयोगात् ||२८|| अर्थे यतोऽक्षघटना प्रथमक्षणे स्याजज्ञानं घटादिविषयं तदनन्तरन्ते ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy