________________
ज्ञानस्वप्रकाशवाद:
आश्रित्य मानसभवं कथितं नु बोध
ज्ञानं न तेऽपि सुधियो विबुधाग्रगण्योः ॥१८॥ यस्मान्महेशमतिगोचरवृत्तियोगाद्
दोषोत्थधीविषयवृत्तिसमन्वयाच्च ।। व्याप्तिन्न दर्शितपदे न तथाऽनुकूल.
स्तर्को विपक्षविमुखीकरणे समर्थः ॥ १९ ॥ किंचेन्द्रियार्थघटनैव यदि त्वदिष्टा
प्रत्यक्षबुद्धिजनिका भविता तदानीम् ॥ गन्धेऽपि चाक्षुषमतिन कथं रसादौ __ घ्राणोद्भवा मतिरियं ह्यखिले समाना ॥२०॥ किं वा न मानसमतिस्तत एव धर्मेऽ___धम्म च बोध इव ते समुदेति तस्मात् ॥ योग्यत्त्वमेव प्रतिवस्तु विलक्षणं च __ स्वीकमिष्टमिति तर्कविर्दा सुपन्थाः ॥२१॥ एतेन चाक्षुषमतौ प्रतिबन्धकाः स्यु.
गन्धादयो न हि मतिस्तत एव तेषाम् ॥ धादि मानसमतौ च ततो न तस्ये
त्येवं परस्य कथनं न तिरस्कृतं किम ॥२२॥ एकेन्द्रियस्य विषयावपि कर्मरूपे __ योग्ये च चन्द्रमसि येन भवेत् प्रकाशः ॥ रूपे न कर्मणि तव स्वयमेव किन्नो जिज्ञासया बुध भविष्यति सत्प्रकाशः ॥२३॥