________________
( ४ )
न्यायसिधौ.
न स्यात्तदा त्वजनकः स्वयमेव भास्यः ॥ व्याप्तिः प्रमाणविषया नहि विद्यतेऽत्र स्याच्चेत्तदेश्वरमतिश्शशशृङ्गकल्पा जन्यत्वतोऽप्यनुगता विशदावभासियोगीश्वरप्रमितितो विमुखा न किं सा ॥
॥१३॥
किं शुक्लशङ्खगतपीतिमरूपबुद्धे
ग्राह्यं विनाऽपि जननं न मतं तवास्ति ॥ १४॥ एतेन लौकिकविशेषणसंविधानाद् योगीश्वरप्रमितिवारणमप्यपास्तम् ॥
साक्षात्करोम्यनुभवस्य बलाद्बुधैय
दोषोद्भवेऽप्यभिमतन्ननु लौकिकत्वम् ॥१५॥
न प्राप्यकार्यभिमतं नयनं ततो नोऽध्यक्षा मतिर्भवति हीन्द्रियसम्प्रयोगात् ॥ स्पष्टत्वमेव विबुधैर्जिनतन्त्रविज्ञैः
स्पष्टीकृतं तदिह लक्षणमस्य युक्तम् ॥१६॥
तेनेन्द्रियार्थघटनाप्रभवत्वमस्य
स्वीकृत्य यैरिह निरूपितमन्यबुद्धेः ॥
ज्ञानस्य भानमिति तेऽपि विचारमार्गा
दूरीकृता विशदयन्तु कथं प्रतिष्ठाम् ॥ १७ ॥ योग्यत्वमिन्द्रियनिरूपितमेकमत्र यैलौकिकत्व कलिताद्विषयत्त्वतोऽथ ॥