________________
लक्षणभेदविचारः
कथयति विबुधोऽन्यस्तत्स्वरूपाऽप्रविष्टं
यदिह तदितरस्माद् भेदकं तत्तटस्थम् ॥ भवति पुनरथान्यत् तत्स्वरूपप्रविष्टं
विसदृशमतिहेतुर्लक्षणं तत्स्वरूपम् ॥८॥ विषयविमुखमेतन्न प्रवृत्त्यादिकार्ये
प्रभवति यत उक्तं तेन तस्य स्वरूपम् ॥ विषयघटितमन्यैर्बाह्यवत् स्वस्वरूपम् विशदयति परन्तन्नान्यतोऽस्य प्रकाशः ॥९॥
॥ वसन्ततिलकावृत्तम् ॥ सूर्यो यथायमखिलार्थविभासकोऽपि
मेघाऽऽवृतत्वविगमे स्वत एव भास्यः ॥ कर्मावृतत्वविलये च तथैव बोधोऽ
थग्राहकोऽपि भवति स्वत एव भास्यः॥१०॥ यद्यन्यबोधत इह व्यवसायभानं
तस्यापि तर्हि परतस्तु भवेत्प्रकाशः॥ इत्थं व्यवस्थितिलयादनवस्थितिः स्याद्
दोषत्रयाऽऽकलितमूर्त्तिरियं न किं वः॥११॥ यद्यक्षजन्यमतिकारणमिष्टमत्र
बोधे तु मानसभवे प्रतिबन्धकन्ते ॥ किं गौरवान्न हि बिभेषि विनापि तेन ___ स्वस्मात् प्रकाश उपपद्यत एव यस्मात् ॥१२॥ ग्राह्यो हि बोधजनको यदि सम्मतः स्यान्