________________
(२३८)
न्यायसिन्धी
कुम्भादयोऽप्यणुचयान्नहि भेदभाजो
नो भूतभिन्नमिह किश्चिदपि प्रसिद्धम ॥२९८॥ लोकव्यवस्थितिरियं सकलापि यस्मा
न्न स्याद्विशेषमननव्यतिरेकतोऽत्र ।। तस्ताद् विशेष इह तैर्व्यवहारदृष्टया सामान्यतो विरहितोऽनुमतो यथार्थः ॥२९९॥ प्रत्यक्षमेकमिह मानतयाऽभ्युपेतं
लोके यतो भवति तन्नियता व्यवस्था ॥ नो पारलौकिककथापि परोक्षमाना
भावान्मतेति गुरुदर्शितमार्गकाष्ठा ॥ १३०० ॥ इष्टोऽथ नैगमनयोऽनुगतस्वभाव
ग्राही विशेषविषयोपि परो नयज्ञैः॥ पूर्वप्रदर्शितनयद्वयमेलनात्मा भिन्नो न चायमिति केऽपि वदन्ति विज्ञाः३०१ काणादगोतमनयावत एव जातो
मीमांसकस्य च नयोऽपि नयादमुष्मात् ॥ नके गमा इह भवन्ति यतस्ततोऽस्मिन् स्यान्नैगमोक्तिघटना ननु योगतोऽपि ॥३०२॥ नो सङ्ग्रहे न च मतो व्यवहारनीतौ बोधो विशिष्टविषयस्तु प्रमास्वभावः ॥ अस्मिन्नये गुणप्रधानविवक्षया स्यावैशिष्टधधीरवितथा न च किं गुणादेः ॥३०॥