________________
' प्रमाणफलप्रदर्शनम्
माध्यस्थ्यवृत्तिजनिकाभिमता परा या
सोपेक्षिकामति रियं खलु केवलात्स्यात् ॥ मत्यादितस्त्विह चतुर्विधबोधतस्स्या
देतत्त्रयस्य भजनाऽनियतप्रवृत्त्या।।२४९।। एतत्फलन्नहि प्रमाणत एव भिन्नं
यद्गातमानुमतमेकनयावलम्बात् ॥ नाभिन्नमेव सुगतानुमतं च भिन्नाभिन्न परन्तु नययुग्मबलत्प्रसिद्धम् ॥१२५०॥ या व्यावहाररिकमतिस्विह दोषजन्याऽऽभासात्मिका भवति साऽप्रमितिमताऽथ ॥ भ्रान्स्यात्तकस्ववधिबोध उदाहृतोत्राभासो विभङ्ग इति चाहततत्त्वविद्मिः ॥२५१।। भ्रान्त्यात्मको न चरणप्रविशुद्धिजन्यो. हृत्पर्ययो न सकलावरणक्षयोत्थः ।। बोधश्च केवलिन इत्यनयान्न चैवा भासो मतो जिनवचोमृतपूतचित्तैः ॥२५२॥ अन्यानुभूतिजनितोऽननुभूतभावे या च स्मृतिभवति दोषवशाजनानाम् ॥ भ्रान्त्यात्मिका ननु मताहततत्त्ववेत्रा साभासतापरिगताऽन्यसमाश्रितत्वात् ॥२५३।। अन्यस्मृतो भवति या ननु प्रत्यभिज्ञाऽध्यक्षादिबोधविषयेऽभिता तु तस्याः॥