________________
(२२८)
न्यायसिन्धौ.
vvvvvvvvvvvvv
द्रव्येण तुल्यसमयस्समये गुणोऽत्र
यश्च क्रमाद् भवति पर्ययनामकस्तः ॥२४३।। रूपादयस्तु सहभावितया गुणारस्युनोलादिपर्ययतयाऽभिमतञ्च तेषाम ।। प्राप्त्यादयोऽप्यसहभावितयैव पर्यायास्मता न च भवन्ति गुणा जिनानाम २४४ उत्क्षेपणादिकमपि प्रमितं परेण
कम्र्मेति यद भवति पर्ययभेद एतत् ।। जातिविशेष इति चाभिमतः पदाथ भिन्नः परेण ननु यो न च सोऽत्र सिद्धः २४५ तादात्म्यतो भवति तार्किकसम्मताऽत्र
वैशिष्टयबुद्धिरपि नो समवायसिद्धिः ॥ तबुद्धितो भवति नापि निरुक्तभावा
दन्यस्वभाव उपपद्यत आहतानाम् ॥२४६।। साक्षात्परम्परितभेदत आहताना मिष्टं फलं द्विविधमस्य प्रमाणराशेः ॥ स्वस्त्रावृतिक्षयशमादिफलं तु साक्षा
द्धानादिकन्तु गुणतोऽभिमतं द्वितीयम्॥२४७॥ या स्यान्निवृत्तिजनिकाऽभिमता तु सैव हानात्मिका मतिरियन्तु न केवलोत्था ॥ या च प्रवृत्तिजनिकाऽभिमताऽत्र सा तपादानबुद्धिरपरा न च केवलात्सा ॥२४८॥