________________
(२२४)
न्यायसिन्धौ.
........
सूक्ष्मेक्षिकात इह नैव विरोधलेशोऽप्यस्तोत्यकुण्ठयमतयः परिभावयन्तु ॥२२१॥ भङ्गत्रये तु सकला विकलान्यभड़ेब्वेषेति किञ्च वचनं नयवादतस्स्यात् ॥ । स्याहादतस्तु प्रतिभङ्गमियं समग्रदेशाऽथवाऽभ्युपगता विकलस्वभावा ॥२२२।। पञ्चप्रकारमिह जैनमतं परोक्ष
मानं व्यवस्थितमनन्यगतेस्ततश्च ।। यत्कुत्रचित्प्रथितमस्ति चतुर्विधत्वं ।
मानस्य तत्परनयान्न निजागमात्तु ॥१२३॥ संख्यास्वरूपविषयाश्च प्रयोजनश्च
तेषां जिनागममता विदिता यथार्थाः॥ ते चान्यतन्त्रगदिताः कथिता नयज्ञै;
राभासतापरिगताः खलु युक्त्ययोगात् ॥२२४॥ हित्वं प्रमाणगतमत्र समासतोऽस्ति:
व्यासाबहुत्वमपि दर्शितमेव पूर्वम् ॥ चार्वाकबौद्वकपिलादिप्रदाशतो य
आभासरूप इह तत्त्ववियोगतस्सः ॥२२५॥ ज्ञानात्मकं भवति मानमनन्यभास्यमर्थावगाहि सविकल्पनरूपमत्र ॥ सन्दिग्धतादिरहितं विपरितमस्मादाभासमन्यनसिद्धमुदा हरन्ति ॥२२६॥