________________
} सप्तभङ्गीरेसकलादेशविकलादेशविचारः (२२३)
-
-
-
-
द्रव्यार्थजात्यभिदया तु समग्रमेकं
द्रव्यार्थभेदमुपगम्य प्रवृत्त आद्यः ।। पर्यायजात्यभिदया च समग्रमेकं
पर्यायभेदमुपगम्य तथा द्वितीयः ॥२१६॥ भङ्गश्चतुर्थ इह तयुगपद्विवक्षासिद्धक्यमेकमुपगम्य प्रवृत्त एवम् ।। इत्थं त्रयोऽपि सकला ननु चाद्वितीयां
शं ख्यापयन्त इतरे विकलास्तु भङ्गाः ॥२१७॥ स्यात्संग्रहो व्यवहृतिश्च नयौ समग्रा
देशस्य मूलमितरेवितरस्य चैवम् ॥ नान्योक्ततत्वघटनाघटनत्वतस्स
खण्डांशतदिगमते ननु भङ्गनिष्ठे ॥२१८॥ . यहन्नरे नरमतौ न सखण्डधीत्वं सिंहेऽथवा हरिमती ननु तहदेव ॥ उक्तन्त्रिभङ्गविषयेऽपि मतिष्वखण्ड
बुद्धित्वमर्थत इमेऽपि भवन्त्यखण्डाः ॥२१९॥ यहद्मवेन्नरहरौ नरसिंहबुद्धौ नाखण्डधीत्वमुभयांशसमन्वयेन ॥ - तद्वत्सखण्डमतितेतरसङ्गगार्थे
बोधेष्वतोऽर्थत इमे तु मताः सखण्डाः ||१२२०॥ तत्त्वार्थभाष्यविवृतौ बुधसिद्धसेन एतन्मतं ननु विचारितवाननिन्द्यम् ॥