________________
प्रमाणसंख्यादियायाीयाथार्थ्यनिरूपणम् ( २२५)
सामान्यमस्य विषयस्सविशेषमिष्ट
मन्योन्यसंवलितमेव यथार्थभावात् ॥ तद्भिन्नमन्यनयसिद्धमवस्तुभावा
दाभासमस्य तु वदन्ति जिनागमज्ञाः ॥२२७।। सामान्यमत्र कथितं द्विविधं तु तिर्यगूर्द्धत्वभेदभजनादनुगामि रूपम् ॥ आद्यं समानपरिणामतया प्रसिद्धं
देशानुगाम्यभिमतं घटतादिनाम ॥२२८॥ द्रव्यस्वरूपमिह जैनमतप्रसिद्धं
कालत्रयानुगतमन्त्यसमानभावात् ॥ तच्चो तेति निजपर्ययमात्रकालास्तित्वान्मृदायभिमतं कलसाद्यभिन्नम् ॥२२९॥ द्रव्याणि षजिनमते प्रथितानि तत्र
यश्चोपयोगगुणवान् स च जीव इष्टः ॥ यः पुद्गलस्तदितरो ननु सोऽत्र रूपा
द्यालिडिन्तोऽभिमत आहततत्वविद्भिः ॥२३०॥ धर्मास्तिकाय इह जैनमतेऽस्ति लोका
काशस्थितो गमनलिङ्गबलात्प्रसिद्धः ॥ शून्यत्वतो भवति यस्य च नो ह्यलोकाकाशे गतिर्गतिमतोऽपि च पुद्गलादेः ॥२३१॥ मीनादयो जलचरा गतिमन्त एव नैव स्थले जल इव प्रभवन्ति गन्तुम् ॥