________________
सप्तभङ्गीरेसकलदेशविकलदेशविचारः॥ (२२१)
अंशो ह्यखण्ड इह चेयदि सत्त्वरूपः किन्तावता सकलबोधफलोऽस्य भङ्गः ।। द्रव्यादभेदघटनाबलतो नयाच्चेत्,
तरिक सखण्डमुखतो न तथाऽन्यभङ्गः॥२०५॥ अंशद्वयस्य घटनाच सखण्डरूपा
धम्मी भिदांशमवलम्ब्य प्रकाशमानाः ॥ नाभेदवृत्तिबलतो मिथ एव भ..
रन्यैस्समस्तघटनानुगताः स्फुरेयुः ॥२०६॥ अंशस्वखण्ड इह तत्वत एव भेदां.
शाभानतोऽभिमुखयत्यखिलांशमेव ॥ स्वात्मन्यभेदमननान्निजरूपमात्र. .
भानात् समाविषयोऽपि मतोऽस्य भङ्गः॥२०७॥ एतन्न युक्तमविकल्पनबोधरूपोऽ... खण्डस्य बोध इह तेऽभिमतोऽन्यथा वा ॥ आये न शाब्दमतिता न च मानतास्य
यस्मादुभावपि विकल्पनबोध एव ॥२०८॥ अन्ते विकल्पकतया नियतं प्रकारा
द्यालम्बनोऽनुमत एव तवापि सोऽपि ।। भेदांशगोचरतया निखिलांशबोधनिष्ठो न दार्शतनयादिबलं विना सः ॥२०९।। वाक्यत्वतो भवति भेदमतिप्रवीणो नोच्चारणं सफलमस्य विना तथास्वम् ॥