________________
२२०)
न्यायसिन्धौ.
साऽभेदतत्वमवलम्ब्य प्रमाणसप्त
भङ्गो समादिशति चकमुखेन धान् ॥१९९॥ तैरष्टभिर्भवति भेदप्रधानभावात्
पर्यायनीतिबलतो यदि मुख्यवृत्त्या ॥ द्रव्याथतस्तदुपचारबलात्तदा तु
सा नीतिजैकमुखतो न समग्रनिष्ठा ॥१२००॥ प्रत्येकमेव प्रतिभङ्गमनन्तधर्मे
सत्वादिकं भवति वस्तुनि भिन्नभावात् ।। एकैकनोतिबलतोऽवगतन्तु सप्त
भङ्गया हिधा भवति सा निखिलैहिभः॥२०१॥ स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्गः
स्यान्नास्ति कुम्भ इति योऽभिमतो द्वितीयः॥ स्यात्कारलाञ्छिततनुश्च मतश्चतुर्थोऽ
वक्तव्यकुम्भ इति तस्त्रितयं प्रमाणम् ॥२०२॥ सर्वान्समादिशति वस्तुगतानखण्ड
वस्त्वंशबोधनबलादभिदैकमानात् ॥ एतन्त्रयन्न तु सखण्डतदंशबोध- .
कार्यन्यभङ्ग निकरो विकलस्वभावः ॥२०३ ॥ इत्यामनन्ति ननु केचिदभङ्गभङ्ग
रूपार्थतत्वमननानिपुणाः परन्ते ॥ सर्वेऽपि धर्मविधयांशतया च भिन्नाभडेवतो न सकलासकलस्वभावौ ॥ २०४ ॥