________________
॥ सप्तभङ्गीविचारः ॥
वस्त्वंश एव वचनाविषयत्वमिष्टं १ किञ्चात्र जैननयवर्त्मनि तुर्यभङ्गा ॥ नो वै तथा श्रुतिविदां मतमीदृशन्त
न्मिथ्यात्वलक्षणतयाऽनुमतं परन्तु ॥ १८३॥ तैस्सर्वथैव सदसत्रवियोगरूपाऽ
वक्तव्यता स्वभिमता ननु मायिकेषु ॥ जेनैः पुनस्सदसदात्मक वस्तुनिष्ठाऽ वक्तव्यता तदतिरिक्ततयैव गीता ॥ १८४॥ शस्स चापि वचनीयतयाऽभ्युपेतोऽ
(२१७)
वक्तव्यशब्दरचना ननु तत्र यस्मात् ॥
एकान्तवादमनने तु चतुर्थभङ्गो
व्याघाततो नहि भवेदुपदर्शनीयः ॥ १८५ ॥ भङ्गत्रयन्तदपरन्त्त्रथ पूर्वयोगात् . तुर्यस्य यज्जिनमतं तदपि प्रसिद्धम् ॥ पूर्वप्रसिद्धिबलतोऽधिगतांशभिन्नां
शानां प्रबोधजनकं भजमान्वितञ्च ॥ १८६॥ वस्त्वंशगोचरतया प्रतिधर्म्ममेषा
वस्तुप्ररूपकतयैव विवक्षया वै ॥ तस्मात्स्थिता विधिनिषेधनयेाः परेषां
सन्देहनाशनिपुणा ननु सप्तभङ्गी ॥ १८७॥ धर्म्मान्समादिशति वस्तुगतानशेषा नैकस्य पर्ययनयादुपचारवृत्त्या ॥
2.6