________________
( २१६ )
न्यायसिन्धौ.
वस्त्वंशताश्रयतया स्थित एव धर्मे स्याद्वादतो विभजना तु विवक्षयैवम् ॥ १७७॥
इत्थं व्यवस्थित इहाश्रय कालद्रव्यावच्छेदकैरपरवस्तुगतैर्द्वितीयः ॥ भङ्गो न वेदनयसम्मत एवमन्यावच्छेदकत्वमननादथ धर्म्मतोऽपि ॥१७८॥
वस्त्वंशगोचरतया तु यदा प्रसिद्धौ भङ्गौ तदा न कथमत्र तृतीयभङ्गः ॥ पूर्वप्रदर्शित दिशोभययोगसिद्धो ह्येशान्तरावगमहेतुरनन्यलभ्यः ॥ १७९ ॥
धर्मद्वयस्य युगपत्त विवक्षितस्य
प्राधान्यतः किमपि नो वचनं यतोऽस्ति ॥
वस्त्वंशतामुपगतस्य चतुर्थभङ्गोऽ
गत श्रार्हतानां
वक्तव्यरूप इह तत्प्रतिपत्तिभेदात् ॥११८०॥ नन्वत्र वेदनय यस्मादनिर्वचनमिष्टमिदन्तु विश्वम् ॥ दृश्यं यथा श्रुतिविदां भवतां तथैव
नो चेद विशेष इह कोऽपि निरूपणीयः ॥ ११८१ नोच्चैरिदं श्रुतिविदा वचनीयमाह
स्याद्वादतत्त्वमनने सकलस्य यस्मात् ॥ इष्टा नयस्य घटना भजनाविदां कि. नैकान्तताऽनभिमता परमत्र तत्त्वात् ॥१८२॥