________________
' सप्तभङ्गीविचारः
(२१५)
-
-
-
--
यस्मादसत्त्वमिह नैव पटादिभाव
मात्रेण कुम्भगतमिष्टमितोऽन्यथापि ॥ द्रव्यादिभिस्त्वभिमतं तत एव सप्त
भङ्गी मता जिननये तु सहस्नभङ्गी ॥१७२॥ एकन्तु धर्ममधिकृत्य मताऽत्र सप्त
भड़ी बुधर्विधिनिषेधविवक्षया वै ॥ वस्त्वंशमेकमधिकृत्य हि सप्तधैव
शङ्का तथैव वचनश्चर चान्यथापि ॥१७३॥ यद्भर्मयोर्विधिनिषेधनयोविरोधा
देकत्र वस्तुनि घटा न विना निमित्तः ॥ भिन्नैस्ततोऽधिकरणादिगमन्यदेवा-..
वच्छेदकत्वमिह यन्ननु तच्च धर्मे ॥१७४॥ धर्मोऽपि नो नियमतः प्रतियोग्यवृत्ति
न्र्नास्तित्वसंघटनतत्पर आहतानाम्, धमौशमात्रमवलम्ब्य भवेच्च येन
भड़े द्वितीय इह वेदनयप्रवेशः ॥१७५॥ सāव्यतादिषु घटादिगतेषु सत्सु
वक्ता विवक्षति यमेव प्रधानभावात् ।। तेनास्ति कुम्भ इह न त्वविवक्षितेन नास्तित्वमिष्टमत एव भवेच्च तेन ॥१७६।। नो कल्पनारचित एव विवक्षियास्ति धर्मों यतो भवतु संवृतिसत्त्वमत्र ।।