________________
॥ सप्तभङ्गीविचारः॥
(२१३)
उत्पत्त्यवस्थितिलयात्मकतापि सत्ता स्यादस्तिता यदि तदापि न दोषपङ्कः ॥ . एकक्षणे त्रितयमस्ति विभिन्नधम्मैः
प्रत्येकशस्समुदयात्तु निरुक्तरूपै- ॥१६१॥ यहत्तनात्मकतया निजसंश्रयेण कालास्तिता नहि घटादिषु तन्न युक्तम् ॥ नो सर्वथा जिनमतेऽनुमतो ह्यभेदो
भेदाऽपि किन्तु तत एव कथन्न सा स्यात् १६२ स्यादस्ति भङ्ग उपपद्यत एव तस्मा
वस्त्वंशबोधकतया प्रथमो जिनानाम् ॥ नैव द्वितीय इह वेदमतप्रवेशाद
भङ्गोऽप्यसिद्धिकवलायत आर्हतानाम् ॥१६३॥ यद्यप्यभावघटना प्रतियोग्यवृत्ति
धम्र्मेण तैरपि मता व्यवहारकाले ॥ मिथ्यात्वमप्यखिलगं तत एव तेषां
सिद्धिं प्रयाति विरहय्य न तं यतस्तत् ॥१६४॥ स्वाधारनिष्ठविरहप्रतियोगितैव मिथ्यात्वमिष्टमखिलानुगतश्च तेषाम् ॥ तत्पारमार्थिकतया विरहं घटादे
रादाय सिद्ध्यति सतो व्यवहारकाले ॥१६५॥ अद्वैतहानिभयतस्स च केवलात्मोऽऽधारस्वरूप उपदर्शित एभिरत्र ॥
AA