________________
॥ सप्तभङ्गीविचारः॥
उक्तेषु सत्त्वनिकरेषु यदास्ति दोष
स्सत्वन्तदा भवतु किन्न च तैर्विभिन्नम् ॥ स्यादस्तिभङ्गविषयो न ततस्तृतीयः पक्षोऽपि मान्य इह तत्त्वपरीक्षकाणाम् ॥११५०॥ पक्षश्चतुर्थ इह चेयदि बाघभीष्टस्सामान्यतो भवति किन्तदवाच्यमत्र ॥ किं वा विशेषत इति प्रथमो न युक्तः
स्सत्त्वादिशब्द इह तत्प्रतिपादको यत् ॥१५१॥ अन्त्ये विशेषवचनाप्रतिपादनेऽपि क्षीरादिगा मधुरतेव न तस्य लोपः विध्यात्मता घटपटादिकवस्तुरूप
मग्नाऽस्तिशब्दत इहाभिमता जिनानाम्।१५२।। वस्तूच्यते विधिनिषेधकरम्बितं झैरंशाविमौ तु भवतोऽस्य निजस्वरूपौ ॥ स्यात्कारयोजनबलादविरोधतस्तो
भङ्गम्येन प्रथितौ भवतो नयज्ञैः ॥१५३।। वस्त्वंशबोधकतयाऽभिमतास्तु भङ्गा
अन्येऽपि वस्त्ववगतिस्त्विह सप्तभङ्गया । नो गौतमादिमततोऽप्यविशेषताऽत्र वस्त्वंश एव ननु वस्तुतया मतस्तैः ॥१५४॥ आपेक्षिके यदि तु वस्तुगतेऽशमात्रेडवच्छेदकत्वमपि तस्य तदा त्वपूर्वम् ॥