SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ ( २०९ ) ॥ सप्तभङ्गीविचारः ॥ नो तर्हि युज्यत इदं त्रितयं घटत्वाकधर्म्मबलतो न मतं यतस्ते ॥ यस्मात्त्रयोsपि मिथ एव विरोधशीला एकत्र धर्मिणि विना न विभिन्नधम्मैः ॥ १३९॥ वृत्तित्वमिष्टमथ कालनिरूपितन्तेऽस्तित्वं तदा स यदि तार्किकगोत्रमान्यः ॥ सिद्धान्तभङ्ग इह तर्हि महाननर्थो • दोषः पतेत्त्वयि भवेच्च न कालगन्तत् ॥ १४०॥ स्याद्वर्त्तनात्मकतया निजतन्त्रसिद्धः कालस्तथापि न च स व्यतिरिक्तरूपः ॥ कित्विष्यते नवपुराणतयोपलभ्य मानो घटादिरिति ते न निजात्मनिष्ठाः ॥ १४१ ॥ सा वृत्तिताऽधिकरणात्मकदेशतोऽथा भीष्टास्तिता तव बुधाय निरूपिता या ॥ द्रव्येष्वनंशिषु तदा न च तस्य योगो यस्मादनाश्रिततया प्रमितानि तानि ॥ १४२॥ स्वक्षेत्रतोऽपि तव किञ्च घटादिभावे - स्तित्वमिष्टमिह तन्न भवेच्च युक्तम् ॥ क्षेत्रं यतोऽधिकरणापरनामधेयं स्वापेक्षमेव न भवेन्निजवृत्तितायाम् ॥१४३॥ अस्तित्ववान् घट इहाभिमतो घटत्वायैस्तेऽक्षपादमतदर्शित एव मार्गः ॥
SR No.022406
Book TitleNyayasindhu Prakaranam
Original Sutra AuthorN/A
AuthorVijaynemusuri
PublisherChimanlal Gokaldas Ahmedabad
Publication Year1923
Total Pages286
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy