________________
(२०६)
न्यायसिन्धो.
AAAAAAAAAAJ
AAAAAAAAnand
स्याहादतो भवति सप्तमयावलम्बी
नैकान्ततो भवति नीतिपथावलम्बी ।।१२२।। स्यादस्ति कुम्भ इति यः प्रथमोऽत्र भङ्ग
स्स्वद्रव्यभावसमयाश्रययोगतस्सः ॥ स्यान्नास्ति कुम्भ इति योऽभिमतो द्वितीयो. ऽन्यद्रव्यभावसमयाश्रयसंश्रयात्सः ॥१२॥ स्यादस्ति नास्ति च घटोऽभिमतस्तृतीयो
सङ्गः क्रमादुभययोगनिरूपकाभ्याम ॥ सद्धर्मयोविधिनिषेधनयोर्विवक्षा.
वैचिव्यतोऽत्र परप्रश्नवशाच युक्तः ॥१२४॥ पत्रोभयोर्युगपदेव भवेद् विवक्षाऽवक्तव्य एव घटइत्यपरानुयोगात् ॥ भश्चतुर्थ उभयोश्च निरूपकाभ्यो
स्यात्कारलाञ्छिततनुन्ननु तत्र बोध्यः ॥१२५॥ भङ्गत्रयेण सह प्रश्नविशेषतस्तु
तुर्यस्य सङ्गटनतोऽत्र भवन्ति भङ्गाः । अन्त्ये त्रयो निजनिरूपकभेदयोगैः प्रत्येकशो जिनसुताभिमता विविक्ताः ॥१२६॥ तुर्यस्य चायघटनान्ननु पञ्चमस्स्यात्
षष्ठो द्वितीयघटना- मतो जिनानाम् भड़ो मतस्त्विह तृतीयविमिश्रणेन हस्सप्तमो न च ततोऽयधिकोऽस्ति भङ्गः १२७