________________
(२०४)
न्यायसिन्धी
आयोऽपि पक्ष इह तेन भवेयुदस्तशब्दार्थयोञ्जननमन्यत एव यस्मात् ॥ ९९९ ॥
अर्थोद्भवो यदि तु शब्दत आहतस्स्यादारिद्र्यशून्यमखिलं जगदेव हि ॥ शब्दस्य चार्थबलतो यदि जन्म मान्यं कादम्बरीप्रभृतिकाव्यभवो न तर्हि ॥ ११२ ॥
तस्मादपोहविषयैव च शब्दतो धी
रर्थक्षयाद् भवति नैव प्रमाणमेषा ॥ नापोह इष्ट इह बाह्यपदार्थ रूप
स्यात्कल्पनात्मकतया प्रतिबिम्बनात्मा ॥ ११३॥
शब्दस्य तेन सह कारणभाव एव संसर्ग इष्ट इह सौगत सम्प्रदाये ॥ जन्यस्वपर्यवसितैव तु वाच्यताऽत्र
हेतुत्वपर्यवसितं ननु वाचकत्वम ॥ ११४ ॥ वाच्यत्ववद्भवति वाचकताऽप्यपोहे
शब्दे स्वलक्षणतया न च सोक्तनीत्या ॥ तादात्म्यविभ्रमवशादुभयोस्तत्र पोहात् स्याद्वाच्यवाचकतयाऽवगतिश्च लोके ॥ ११५ ॥ इत्यादिकं जिनमतेऽप्यनुकूलमेव एकान्तवादमतखण्डनयुक्तिजालम ॥ बौद्धप्रदर्शितमतो न च शाब्दबोधोऽनेकान्ततत्त्वविषयेष्वपि नैव मानम् ॥ ११६ ॥