________________
( २०२ )
न्यायसिन्धौ.
स्वव्यञ्जकैस्तु समयैर्नियतार्थनिष्ठेहस्तेऽपि तन्नियतबोधविधानदक्षाः ॥ ११०० ॥ एतेन शक्तिरिह वास्तविकी घटादि
शब्दस्य ते यदि घटादिषु तर्हि न स्यात् ॥ एकस्य भिन्नसमयेन विभिन्नदेशमाश्रित्य भिन्नविषयत्वमिति प्रभग्नम् ॥१०१॥ सामान्यमात्रमथ जैनमते न शक्यं नो वा विशेष उभयात्मकमेव वस्तु ॥ स्याद्वादतश्च शबलात्मकमेकतादेन तत्र दोषघटना सुगतानुगानाम् ॥१०२॥ शब्दा विकल्पजनने निपुणा न चात्र वस्तुस्वलक्षणमपि प्रभवोऽभिधातुम् ॥ eri स्वलक्षणमतो न विकल्पभास्यं शक्तिग्रहोऽपि न च तत्र भवेद्विकल्पात् ॥१०३॥ किञ्चानुगाम्यपि न तत्तत एव तत्र सङ्केतसंस्करणमप्यफलं प्रतीमः ॥ एवं क्षणैकनियते ग्रहसव्यपेक्षो
दुइशक्य एव समयः स्थिरपक्षबाधात् ॥ १०४ ॥ सामान्यमेकमपि न प्रमितं विकल्प
ग्रासान्न वृत्तिरपि तस्य भवेत् क्वचित्तु ॥ अर्थक्रियापि मतितो न भवेद्विभिन्ना
किञ्चास्य तेन समयः फलवान्न चात्र ॥१०५॥