________________
(२८०)
न्यायसिन्धौ.
चेत्सूक्ष्ममूर्तचलनाननुकूलतातः
शब्दो न पौद्गलिक इत्यतिमन्दमेव ॥८९॥ श्राये ह्यसिद्धिघटनामल एव हेतो
वाग्वर्गणाऽधिकरणं न तु खं च कादेः ॥ स्पर्शाश्रयाश्रिततया तदभावरूपो
निःस्पर्शतापदमतो न च हेतुरत्र॥१०९०॥ स्पर्शाश्रयत्वमनुमामतितः प्रसिद्धं
शब्दाश्रयेऽनुपवनप्रतिकूलवातैः ॥ दूरस्थसन्निहितदेयुपलम्भभावा
भावाश्रयाश्रयतया तु मृगाण्डवहः ॥११॥ अहंद्वचःप्रमितमेव जिनानुगानां स्पर्शाश्रयत्वमिह नानुमया प्रसाध्यम् ॥ आप्तागमे स्फुरति को जडबुद्धिभिन्नो
मानान्तराश्रयणतत्पर ईक्षितो ज्ञैः ॥१२॥ हेतुर्दितीय इह नाव्यभिचारिरूपो
गन्धाश्रयेण ननु यद्व्यभिचारिताऽस्य ॥ सदामिनीप्रभृतिभिश्च तथा तृतीयो
धूमेन तुर्य इह किन्न तथैव दृष्टः ॥ ९३ ॥ शब्दे भवेत् खगुणता यदि तर्हि तेन
स्यात्तस्य पोद्गलिकताविरहप्रसिद्धिः ॥ रूपादिवन्न खगुणो बहिरिन्द्रियेण प्राह्यत्वतो भवति चर्मशां तु शब्दः ॥९॥