________________
· आगतप्रमाणनिरूपणम्
(९९)
स्यादाप्तवाक्यजनितोऽन्वयबोधनामा
व्याप्त्यादिबोधविरहेऽपि च जायमानः ॥ मानान्तरत्वनियतोऽननुमादिधीत्वात् वैशेषिकाविहत आगम आर्हतानाम् ॥८४॥ शब्दे तु मानवचनं नहि मुख्यवृत्त्या किन्तूपचारबलतो जनताप्रसिद्धम् ॥ यस्मादनिन्द्यमुपयोगगतं प्रमाणत्वन्नान्यनिष्ठमिति जैनमतप्रसिद्धम् ॥८५॥ वाच्यं यथास्थितमबाधितमेव बुद्ध्वा ज्ञानानुसारिवचनं य इहाभिधत्त । आप्तस्स एव वचनश्च तदुक्तमेवासंवादिताविरहतो भवति प्रमाणम् ॥८६॥ आप्तो द्विधा भवति लौकिकतहिभिन्न
भेदादलौकिक इहाभिमतो जिनादिः ॥ पित्रादिको भवति लौकिक आप्तवाक्यो
क्या नित्यशब्दमतखण्डनमिष्टमत्र ॥८७॥ तत्खण्डनं प्रथममेव तु मानसामान्यस्याभिधानसमये कृतमत्र युक्त्या ॥ जन्योऽपि वर्ण इह पौद्गलिको जिनानामिष्टो न गौतमसुताभिमतो गुणात्मा ॥८॥ निःस्पर्शतानिविडदेशप्रवेशितादेः, पूर्वोत्तरावयवदर्शनशन्यतातः ॥