________________
... ( १९८) न्यायसिन्धौ. एकान्तवादनिकरप्रतिषेधबोधो
यस्मात्ततो भवति तत्त्वप्रबोधहेतुः ॥१०७८|| अन्ये विरुद्धजनकादिविभेदतस्स्युः
पूर्वप्रदर्शितदिशा षडिति प्रधार्यम् ॥ हेतुस्तथाहतमतेऽनुपलब्धिरूपो
द्वैविध्यवान् विधिनिषेधमतिप्रवीणः ॥७९|| तत्राविरुद्धविषयानुपलब्धिहेतुःस्स्याद्यस्य तस्य स निषेधमतौ समर्थः॥ अन्यो विरुद्धविषयानुपलब्धिरूपो
हेतुर्विधायकतयाऽभिमतो जिनानाम् ॥१०८०॥ ज्ञेयस्स्वभावसहकालिकपूर्वकालपाश्चात्यकार्यजनकाधिकवृत्त्यभावैः । आद्यो निषेध्यविषयस्य तु सप्तभेदो हेतुनिषेधगमको मत आर्हतेऽस्मिन् ॥८१॥ इष्टस्स्वभावसहकालिकहेतुकार्यन्यूनाश्रयापगमभेदत आर्हतानाम् ॥ अन्त्यो विरुद्धविषयस्य तु पञ्चभेदो विध्यङ्गतापरिगतोऽनुपलब्धिहेतुः ।।८२॥ दृष्टान्ततस्वयमिहाकलयन्तु विज्ञाः
भेदान् विशेषविषयान्ननु किञ्च वादे ॥ बौद्धान्स्वभावनियतानुपलब्धिहेतुप्रोक्तृञ्जयन्तु भजनानियतप्रकारैः ॥८३॥