________________
न्यायसिन्ध
(१९६)
संयोग सङ्घटितमत्तिरयं परन्तु
प्राप्तेस्तु वा भवति सोऽस्खलित प्रचारः ||६७॥ किं वा घटादिप्रतियोगिकता जलाद्याधारानुयोगिकतया सहिता यतो नो ॥ प्राप्तौ ततस्तदुभयोर्विरहस्वभावस्तत्तत्प्रतीतिविषयोऽस्त्विह नव्यनीत्या || ६८॥ बोधानतिक्रमणतो विरहस्तु सोऽपि ज्ञेयो बुधैरपरथा न च वस्तुसिद्धिः ॥ स्याद्वादिनः सकलमेव हि वस्त्वनेकरूपं ततोऽत्र कथमैकिकवादयोगः ॥ १०७० ॥ हेतुर्बुधैर्य उपलब्धितया प्रदिष्टो द्वैविध्यमस्य गदितं प्रथमोऽविरुद्धः || पोढा विधो जनकजन्य नियम्य पूर्वपश्चात्स्वकालचरमुख्यप्रभेदतोऽलम ॥ ७१ ॥
एतेन सौगतमतं विधिसाधकन्तु कार्यस्वभावभजनाद्विविधं निरस्तम ॥ यस्मादिह प्रथमदर्शितलक्षणस्य सदभावतोऽन्यदपि लिङ्गतथैव भाति ॥७२॥ तत्रान्यकारणसमग्रसमन्वितस्सन्
हेतु कार्य जननेऽनियतोऽत्र यस्मात् ॥ तत्कारणं भवति कार्यमतिप्रवीणं
बौद्धैन्न किं तदपि दर्शितमस्ति शास्त्रे ॥ ७२॥