________________
(१९४)
न्यायसिन्धौ.
.
स्वाध्यक्षगोचरपदार्थमतिप्रवीणं
प्रत्यक्षमप्यथ परार्थमवैति वाक्यम् ॥५६॥ पश्योदयाचलगतं रविबिम्बमङ्ग
पश्यास्तपर्वतगतं शशिबिम्बमेवम् ॥ वाक्यं पराथमुदितं जिनतन्त्रविज्ञा अध्यक्षमेव गुणतः समुदाहरन्ति ॥५७॥ पूर्वन्निजस्मृतिपथं समुपागतेऽथ, मेये परस्मृतिकृते वचनं परार्थम् ॥
उक्तं बुधैः स्मरणमेव तु गौणवृत्त्या मानान्तरेष्वपि च तत्स्वयमहनीयम ॥५८|| वस्त्वागमे सदसदंशतया जिनानां सिद्धं द्विरूपमनुमाजनकञ्च तस्य ।। लिङ्गं द्विधा विधिनिषेधप्रथाप्रवीण
मुक्तं बुधैस्तदुपलम्भतदन्यभेदात् ॥५९॥ तत्रासदंशवचनेन च तार्किकाणां
भावातिरिक्तविषये विरहादिवाणी ॥ एकान्तवादपरिनिष्ठितबुद्धिभाजां क्षिप्ता नृशङ्गवचनादिसहोदराऽभूत् ॥१०६०॥ इष्टश्चतुर्विधतया स जिनानुगानां
यः कार्यपूर्वसमये स च प्रागभावः ॥ मृत्पिण्डमेव कलसात्प्रथमञ्च तत्र तिष्ठत्तदात्मकतयाऽभिमतन्न चान्यत् ॥६१॥