________________
॥ अनुमाननिरूपणम् ॥
(१९३)
नो गौतमानुमतमत्र.मतं च साध्यव्याप्यस्य पक्षघटनामननं तृतीयम् ॥ हेतुत्वतो भवति किन्तु विनापि तेन
छाभ्यां प्रदर्शितदिशाऽनुमितेर्हि जन्म ॥५१॥ धर्मिप्रसिद्धिरिह जैनमतानुगानां
मानाद्यथा खलु विकल्पमतेस्तथैव ॥ धर्म्यप्रसिद्धिरत एव जिनागमज्ञै
र्दोषत्वतो नहि मता परतन्त्रसिद्धा ॥५२॥ ये न्यायशब्दत इहाभिमता प्रतिज्ञाहेत्वादयस्त्ववयवाः परबुद्धिहेतुः ।। उद्भावनं जिनमते प्रथितञ्च तेषां
सामस्त्यतः क्वचिदिह क्वचिदन्यथापिः ॥५३॥ विज्ञः परो.यदि तदा ननु हेतुरेव
वाच्यो यतोऽनुमितिरस्य तु ताक्तैव ॥ व्याप्तिस्मृतेजडमतिस्तु परो यदि स्यात्
सर्वेऽपि तवयवाः प्रतिपादनीयाः ॥५४॥ एतेन बुद्धकपिलादिस्तोपगीत
मेकान्ततोऽत्र नियतावयवात्मकस्य ।। न्यायस्य वाद उपदर्शनमस्तमेषु
न्यूनादिनिग्रहभवोऽपि महाननर्थः ॥५५'। गौणं परार्थमनुमानमवैति विहाँल्लिङ्गादिकावयचकीत्तनमत्र तहत् ।।