________________
(१९२)
न्यायसिन्धौ.
अध्यक्षबोध इह तद्विषयो न यस्मान्नैवानवस्थितिभयादनुमाऽपि तत्र ॥१०४५॥ शून्यत्वपक्षमपि माध्यमिकप्रदिष्टं
मानं विना न च तथैति प्रसिद्धिमार्गम् ॥ सामान्यगोचरतया यदि मानता नो, किन्नानुमानमपि तहि निरस्तमेभिः ॥४६॥ या चात्र दोषघटना ननु तैरभीष्टा
सर्वाऽपि साऽनुमितिबोधगताऽपि तेषाम, ।। तहोषखण्डनप्रकारगतेस्तु तत्रा
दिष्टोहगापि सकला परिभावनोया ॥४७॥ स्याल्लिङ्गबुद्धिनियमतितोऽनुमानं
साध्यावभासकमिदं विविधं च तत्र ॥ स्वार्थ स्वतो भवति यद्वचनं परार्थ
लिङ्गादिकस्य तु भवेदुपचारतस्तत् ॥४८॥ लिङ्गस्य लक्षणमिहानुपपत्तिरेव
साध्यं विना न तु पराभिमतं त्रिकादि ॥ यस्मात्रिलक्षणयुतोऽपि भवेन्न हेतुस्तामन्तरेण गमकस्सु गतानुगानाम् ॥१९॥ साध्यन्वबाधितमभीप्सितमप्रतीतमिष्टं न चान्यदिह लक्षणमस्य युक्तम् ॥ धूमादिना भवति यत्र तु वह्विसिद्धिधम्मा स एव ननु पक्षपदाभिलप्यः ॥१०५०॥