________________
| प्रत्यभिज्ञाप्रमाणानभ्युपगन्तबौद्धस्यापाकरणम्
केशादिवस्तुविषया यदि न प्रमाण नैतावता भ्रममतिस्सकलाऽप्यभिज्ञा ॥ अध्यक्षमेकमनृतं द्विशुधांशुभासं
दृष्टं समग्रमपि तन्न तथैव सिद्धम् ॥ १०४०॥ यद्दृष्टयदृष्टिजनितं नियमस्य साध्यहेत्वोस्त्रिकालगतयोरवगाहि तत्स्यात् ॥ तर्कप्रमाणमिदमत्र न तम्विना स्यादित्यादिरूपमनुमाप्रमितौ समर्थम् ॥ ४१ ॥
शब्दार्थयोरपि भवेदत एव मानात् सामस्त्यतोऽवगत आहेतसम्प्रदाये || संसर्ग श्राप्तवचनोद्भवबोधहेतुस्स्यात्कार्यताद्यवगमोऽप्यत एव मानात् ॥ ४५ ॥
सामान्यलक्षणमलौकिकसन्निकर्षे नैवामनन्ति चरितार्थमनेन जैनाः ॥
बौद्धाः कुतर्करसिका हतबुद्धयस्तु नेच्छन्ति तर्कमिह मानतया प्रसिद्धम् ॥४३॥ तेषां मते घटपटाद्यपि नैव सिद्धये
(९१)
न्मानं विना नहि प्रमेयगतिः प्रसिद्धा ॥ संवाद लिङ्गजनितानुमितिं विना नोऽध्यक्षोऽपि सिद्ध्यति प्रमाणतयाऽत्र बोधः ॥ ४४ ॥ नैवानुमा नियतलिङ्गमतिं विना स्यात् तर्क विना न नियमग्रह एव कोऽपि ॥