________________
( १९० )
न्यायसिन्धौ.
सामान्यसिद्धिबलतः स्थिरसाधनाच्चाभिक्षा प्रमाणमिति जैन कुलोद्भवास्तु ॥३४॥ किञ्चैकताभ्रमनिमित्तमवश्यमेभि
स्सादृश्यमभ्युपगतं क्षणिकेषु तत्र ॥ सादृश्यमस्ति यदि तर्हि प्रमाणमेवाभिज्ञा भवेत् सदृशवस्त्ववगाहिनी यत् ||३५|| सादृश्यमेषु यदि नैव विलक्षणेषु
भावेषु तेऽभिमतमस्ति तदाऽप्यभिज्ञा ॥ मानं विलक्षणतयाऽणुसमूहमेव यस्मात्प्रकाशयति तेऽपि मते बुधाय्य ॥ ३६ ॥ नो वै विलक्षणतयाऽवयवो मतास्ते ते सम्मताः प्रचयमात्रतयैव विद्वन् ॥ मानन्तथापि प्रचयाल्पमहत्वभासा
भिज्ञा कथन्न तव सङ्कलनास्वरूपा ॥३७॥ नीलादिरूपमणुमात्रमथाभिधत्से
तद्रूपताप्यणुगतोपगता किमर्थम् ॥ वैचित्र्यतो मतिगताद्यदि वा मता सा पूर्वोक्तधर्म्मघटनाऽपि न किन्तथैव ॥ ३८|| स्याद्वासनैव सदृशादिधियोऽनुकूला नीलादिबुद्धिरपि किन्न तयैव ते स्यात् ॥ चित्रा तु सा विषयमन्तरतो मता चेत् सर्वाऽपि धर्म्मघटना तव तर्हि मान्या ||३९||