________________
॥ परोक्षप्रमाणनिरूपणम् ॥
(१८९)
तस्मादयं विसहशो गवयस्य शक्यो
नायं स एव स च दीर्घतरस्तथास्मात् ॥ हस्वो लघुर्गुरुरयं स च तस्य पुत्र
इत्यादिका भवति सङ्कलनेव बुद्धिः ॥२९॥ न ज्ञानलक्षणमतोऽभिमतो जिनानां
संसर्ग इन्द्रियगणस्य तु गौतमोक्तम् ॥ ज्ञानं यतस्सुरभिचन्दनमित्यभिज्ञा
रूपं परोक्षमिह न त्वपरोक्षरूपम् ॥ १०३० ॥ वेदान्तिभिस्सुरभिचन्दनबोध इष्टोऽ
वच्छेदवृत्तिवशतो द्विविधस्वरूपः ॥ प्रत्यक्षता भवति चन्दनवृत्तियोगात्
सौरभ्यवृत्तिघटनाञ्च परोक्षतापि ॥३१॥ सौरभ्यवृत्तिरपि तैः स्मरणस्वरूपा:भ्यस्तस्थलेऽभ्युपगताऽनुमितिः क्वचित्तु ।। चैतन्यमेकमथ तदद्वययोगशालिज्ञानं प्रमेत्यभिमतं तदवद्यमेव ॥३२॥ पूर्वक्रमेण तदभाववगत्य लोकः
पश्चादिशिष्टमवगच्छति धीविशेषात् ॥ यस्मात्ततो भवति तद्व्यतिरिक्तमेव
ज्ञानं परोक्षमथ तवयतस्तु जन्यम् ॥ ३३ ।। सामान्यधर्मविरहात् स्थिरवस्त्वभावान्नेदं प्रमाणमिति बुद्धसुता वदन्ति ॥