________________
॥ अवग्रहादिनिरूपणम् ॥
(१८७)
एवं क्रमोत्थनिजकमलयोपशान्तेस्तेषां क्रमो भवति किश्च तथोपलब्धेः ॥ स्यात्पूर्वपूर्वमथवोत्तरबुद्धिहेतु
न्नों सांख्यवत्त करणक्रमतः क्रमोऽत्र ॥१८॥ तस्मात् स्थितं सदवगाहिमतिस्तु पूर्व
तस्मान्मनुष्य इति वृक्ष इति प्रकारा ॥ प्रायो ह्यनेन मिथिलास्थजनेन भाव्यं
सेवायमित्यवगतिक्रम आर्हतानाम् ॥१९॥ यत्रापि न क्रमतयाऽवगतिर्जिनाना.
मभ्योसगोचरपदार्थप्रकाशकेषु ॥ बोधेषु तत्र शतपत्रविभेदवरस्या
च्छीघोद्भवत्वबलतोऽनुपलक्षणन्तु ॥१०२०।। मानं परोक्षमथ पञ्चप्रकारमिष्ट
मस्पष्टता भवति लक्षणमस्य युक्तम् ॥ संस्कारजन्यमनुभूतचरन्तदित्या
कारं मतं स्मरणमत्र प्रमाणमाद्यम् ॥२१॥ ज्ञातार्थभासकतया यदि मानताऽस्य
नेष्टाऽनुमापि तत एव तदा न मानम् ॥ व्याप्तिग्रहो निखिलदेशगसाथ्यहेतु
ग्राही यतः प्रथमतो नियमेन तस्याः ॥२२॥ तन्न्यूनगोचरतया यदि मानताऽस्यास्तद्वत्स्मृतेरपि भवेन्नहि मानता किम् ॥